|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.82. अध्यायः 082
Mahabharata - Karna Parva - Chapter Topics
कर्णपराक्रमवर्णनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
धृतराष्ट्र उवाच। 8-82-0x(5035)(59031)
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे।
दुर्योधनोऽब्रवीत्किं नु सौबलो वाऽपि सञ्जय॥ 8-82-1(59032)
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि।
कृपो वा कृतवर्मा वा द्रौणिर्दुःशासनोऽपि वा॥ 8-82-2(59033)
अत्यद्भुतमहं मन्ये पाण्डवेयस्य विक्रमम्।
यदेकः समरे सर्वान्योधयामास मामकान्॥ 8-82-3(59034)
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि।
कुरूणामथ सर्वेषां कर्णः शत्रुनिषूदनः।
शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय॥ 8-82-4(59035)
तद्भग्रं स्वबलं दृष्ट्वा कौन्तेयेनामितौजसा।
धनुर्दराणां प्रवरः कर्णः किमकरोद्युधि॥ 8-82-5(59036)
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय॥ 8-82-6(59037)
सञ्जय उवाच। 8-82-7x(5036)
अपराह्णे महाराज सूतपुत्रः प्रतापवान्।
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः॥ 8-82-7(59038)
भीमोऽप्यतिबलं सैन्यं धार्तराष्ट्रं व्यपोथयत्॥ 8-82-8(59039)
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता।
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मां वह॥ 8-82-9(59040)
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान्।
प्राहिणोच्चेदिपाञ्चालान्करूशांश्च महाबलः॥ 8-82-10(59041)
प्रविश्य च महत्सैन्यं शल्यः परबलार्दनः।
न्ययच्छत्तुरगान्हृष्टो यत्रयत्र च ते रथाः॥ 8-82-11(59042)
तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम्।
संदृश्य पाण्डुपञ्चालास्त्रस्ता ह्यासन्विशाम्पते॥ 8-82-12(59043)
ततो रथस्य निनदः प्रादुरासीन्महारणे।
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः॥ 8-82-13(59044)
ततः शरशतैस्तीक्षणैः कर्ण आकर्णनिःसृतैः।
जघान पाण्डवबलं शतशोऽथ सहस्रशः॥ 8-82-14(59045)
तं तथा समरे कर्म कुर्वाणमपराजितम्।
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः॥ 8-82-15(59046)
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः।
नकुलः सहदेवश्च द्रौपदेयाश्च सात्यकिः॥ 8-82-16(59047)
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः।
सात्यकिस्तु तदा कर्णं विंशत्या निशितैः शरैः॥ 8-82-17(59048)
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः।
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च सप्तभिः॥ 8-82-18(59049)
द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः।
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः॥ 8-82-19(59050)
भीमसेनस्तु राधेयं नवत्या नतपर्वणाम्।
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः॥ 8-82-20(59051)
अथ प्रहस्याधिरथिर्व्याक्षिपद्धनुरुत्तमम्।
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः॥ 8-82-21(59052)
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः।
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च भरतर्षभ॥ 8-82-22(59053)
तं तथा नवभिर्बाणैराजघान स्तनान्तरे।
भीमसेनं ततः क्रुद्धो विव्याध त्रिंशता शरैः॥ 8-82-23(59054)
सहदेवस्य भल्लेन ध्वजं चिच्छेद मारिष।
सारथिं च त्रिभिर्बाणैराजघान परन्तपः॥ 8-82-24(59055)
विरथान्द्रौपदेयांश्च चकार भरतर्षभ।
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत्॥ 8-82-25(59056)
विमुखीकृत्य तान्सर्वाञ्शरैः सन्नतपर्वभिः।
पाञ्चालानहनञ्छूरांश्चेदीनां च महारथान्॥ 8-82-26(59057)
ते वध्यमानाः समरे चेदिमत्स्या विशाम्पते।
कर्णमेकमभिद्रुत्य शरसङ्खैः समार्पयन्॥ 8-82-27(59058)
ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः।
ते वध्यमानाः समरे चेदिमात्स्या विशाम्पते।
प्राद्रवन्त रणे भीताः सिंहत्रस्ता मृगा इव॥ 8-82-28(59059)
एतदत्युद्भतं कर्म दृष्ट्वानस्मि भारत।
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान्॥ 8-82-29(59060)
यतमानान्परं शक्त्या योधयानांश्च धन्विनः।
पाण्डवेयान्महाराज शरैर्वारितवान्रणे॥ 8-82-30(59061)
तत्र भारत कर्णस्य लाघवेन महात्मनः।
तुतुषुर्देवताः सर्वाः सिद्धाश्च सह चारणैः॥ 8-82-31(59062)
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम्।
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम्॥ 8-82-32(59063)
ततः कर्णो महाराज ददाह रिपुवाहिनीम्।
कक्षमिद्धो यथा वह्निर्निदाधे ज्वलितो महान्॥ 8-82-33(59064)
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः।
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महारथम्॥ 8-82-34(59065)
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे।
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः॥ 8-82-35(59066)
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः।
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः॥ 8-82-36(59067)
तत्राद्भुतं पुनश्चक्रे राधेयः शत्रुकर्शनः।
यदेनं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम्॥ 8-82-37(59068)
जलौघः पर्वतश्रेष्ठं यथासाद्य प्रभिद्यते।
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते॥ 8-82-38(59069)
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलत्।
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम्॥ 8-82-39(59070)
शिरांसि च महाराज कर्णां श्चैव सकुण्डलान्।
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः॥ 8-82-40(59071)
हस्तिदन्तत्सरून्खङ्गान्ध्वजाञ्शक्तीर्हयान्गजान्।
रथांश्च विविधान्राजन्पताका व्यजनानि च॥ 8-82-41(59072)
अक्षं च युगयोक्त्राणि चक्राणि विविधानि च।
चिच्छेद बहुधा कर्णो योधव्रतमनुष्ठितः॥ 8-82-42(59073)
तत्र भारत कर्णेन निहतैर्गजवाजिभिः।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा॥ 8-82-43(59074)
विषमं च समं चैव हतैरश्वपदातिभिः।
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन॥ 8-82-44(59075)
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम्।
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते॥ 8-82-45(59076)
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषणैः।
सञ्छादिता महाराज पाण्डवानां महारथाः॥ 8-82-46(59077)
ते पाण्डवेयाः समरे राधेयेन पुनः पुनः।
अभज्यन्त महाराज यतमाना महारथाः॥ 8-82-47(59078)
मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने।
पञ्चालानां रथश्रेष्ठान्द्रावयञ्शात्रवांस्तथा॥ 8-82-48(59079)
कर्णस्तु समरे योधांस्त्रासयुन्सुमहायशाः।
कालयामास तत्सैन्यं यथा पशुगणान्वृकः॥ 8-82-49(59080)
दृष्ट्वा तु पाण्डवीं मेनां धार्तराष्ट्राः पराङ्युखीम्।
तत्राजग्मुर्महेष्वासा रुदन्तो भैरवात्रवान् ॥ 8-82-50(59081)
दुर्योधनो हि राजेन्द्र मुदा परमया युतः।
वादयामास संहृष्टो नानावाद्यानि सर्वशः॥ 8-82-51(59082)
पाञ्चालाश्च महेष्वासा भग्नास्तत्र नरोत्तमाः।
न्यवर्तन्त तदा शूरा मृत्युं कृत्वा निवर्तनम्॥ 8-82-52(59083)
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः।
अनेकशो महाराज बभञ्ज पुरुषर्षभः॥ 8-82-53(59084)
तत्र भारत कर्णेन पाञ्चाला विंशती रथाः।
निहताः सायकैः क्रोधाच्चेदयश्च परंशताः॥ 8-82-54(59085)
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत।
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान्॥ 8-82-55(59086)
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः।
कालान्तकवपुः शूरः सूतपुत्रोऽभ्यराजत॥ 8-82-56(59087)
एवमेतन्महाराज नरवाजिरथद्विपान्।
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः॥ 8-82-57(59088)
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः।
तथा स सोमकान्हत्वा तस्थावेको महारथः॥ 8-82-58(59089)
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम्।
वध्यमानाऽपि यत्कर्णं नाजहू रणमूर्धनि॥ 8-82-59(59090)
राजा दुःशासनश्चैव कृपः शारद्वतस्तथा।
अश्वत्थामा कृतवर्मा शकुनिश्च महाबलः।
व्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः॥ 8-82-60(59091)
कर्मपुत्रौ तु राजेन्द्र भ्रातरौ सत्यविक्रमौ।
निजघ्नाते बलं क्रुद्धौ पाण्डवानामितस्ततः॥ 8-82-61(59092)
तत्र युद्धं महच्चासीत्क्रूरं विशसनं महत्॥ 8-82-62(59093)
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ।
द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम्॥ 8-82-63(59094)
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः।
तावकानामपि रणे भीमं प्राप्य महाबलम्॥ ॥ 8-82-64(59095)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्व्यशीतितमोऽध्यायः॥ 82 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|